Wednesday, 5 August 2020

।।बृहस्पति स्तोत्रम् ।।

॥ बृहस्पतिस्तोत्रम् ॥

गुरुर्बृहस्पतिर्जीव: सुराचार्यो विदांवरः ।
वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा ॥ १ ॥

सुधादृष्टिग्रहाधीशो ग्रहपीडापहारकः ।
दयाकरः सौम्यमूर्तिः सुरार्च्यः कुंकुमद्युतिः ॥ २ ॥

लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः । 
तारापतिश्चांगिरसो वेदवैद्यपितामहः ॥ ३ ॥

भक्त्या बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् ।
अरोगी बलवान् श्रीमान्पुत्रवान् स भवेन्नरः ॥ ४ ॥

जीवेद्वर्षशतं मर्त्यो पापं नश्यति नश्यति ।
यः पूजयेद् गुरुदिने पीतगन्धाक्षताम्बरैः ॥ ५ ॥

पुष्पदीपोपहारैश्च पूजनीयं बृहस्पतिम् ।
ब्राह्मणान्भोजयेत्तस्य पीडाशान्तिर्भवेद् गुरोः ॥ ६ ॥

                          ॥ इति ॥ 


0 Comments:

Post a Comment

HAR MAHADEV

Subscribe to Post Comments [Atom]

<< Home