Monday, 29 June 2020

।।चन्द्र स्त्रोत्रम् ।।chandra stotram

     ॥ चन्द्रस्तोत्रम् ॥

चन्द्रस्य शृणु नामानि शुभदानि महीपते ।
यानि श्रुत्वा नरो दुःखान्मुच्यते नात्र संशयः ॥ १ ॥

सुधाकरश्च सोमश्च ग्लौरब्जः कुमुदप्रियः ।
लोकप्रियः शुभ्रभानुश्चन्द्रमा रोहिणीपतिः ॥ २ ॥

शशी हिमकरो राजा द्विजराजो निशाकरः ।
आत्रेय इन्दु शीतांशुरोषधीशः कलानिधिः ॥ ३ ॥

जैवातृको रमाभ्राता क्षीरोदार्णवसम्भवः ।
नक्षत्रनायकः शम्भुशिरश्चूडामणिविभुः ॥ ४ ॥

तापहर्ता नभोदीपो नामान्येतानि यः पठेत् ।
प्रत्यहं भक्तिसंयुक्तस्तस्य पीडा विनश्यति ॥ ५ ॥

तद्दिने च पठेद्यस्तु लभेत् सर्वं समीहितम् ।
ग्रहादीनां य सर्वेषां भवेच्चन्द्रबलं सदा ॥ ६ ॥

                            ॥ इति ॥ 

0 Comments:

Post a Comment

HAR MAHADEV

Subscribe to Post Comments [Atom]

<< Home