।।सूर्य स्त्रोत्रम्।। surya stotram।।
|| सूर्यस्तोत्रम् ॥
नवग्रहाणां सर्वेषां सूर्यादीनां पृथक् पृथक् ।
पीडा च दुःसहा राजञ्जायते सततं नृणाम् ॥ १ ॥
पीडानाशाय राजेन्द्र नामानि शृणु भास्वतः ।
सूर्यादीनां च सर्वेषां पीडा नश्यति शृण्वतः ॥ २ ॥
आदित्यः सविता सूर्यः पूषाऽर्कः शीघ्रगो रविः ।
भगस्त्वष्टाऽर्यमा हंसो हेलिस्तेजोनिधिहरिः ॥ ३ ॥
दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः ।
विभावसुर्वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ४ ॥
हरिदश्वः कालवक्रः कर्मसाक्षी जगत्पतिः ।
पद्मिनीबोधको भानुर्भास्करः करुणाकरः ॥ ५ ॥
द्वादशात्मा विश्वकर्मा लोहिताङ्गस्तमोनुदः ।
जगन्नाथोऽरविन्दाक्षः कालात्मा कश्यपात्मजः ॥ ६ ॥
भूताश्रयो ग्रहपतिः सर्वलोकनमस्कृताः ।
जपाकुसुमसंकाशो भास्वानदितिनन्दनः ॥ ७ ॥
ध्वान्तेभसिंहः सर्वात्मा लोकनेत्रो विकर्तनः ।
मार्तण्डो मिहिरः सूरस्तपनो लोकतापनः ॥ ८ ॥
जगत्कर्ता जगत्साक्षी शनैश्चरपिता जयः ।
सहस्ररश्मिस्तरणिर्भगवान्भक्तवत्सलः ॥ ९ ॥
विवस्वानादिदेवश्च देवदेवो दिवाकरः ।
धन्वन्तरिाधिहर्ता दद्रुकुष्ठविनाशनः ॥ १० ॥
चराचरात्मा मैत्रेयोऽमितो विष्णुर्विकर्तनः ।
दुःखशोकापहर्ता च कमलाकर आत्मभूः ॥ ११ ॥
नारायणो महादेवो रुद्रः पुरुष ईश्वरः ।
जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतोमुखः ॥ १२ ॥
इन्द्रोऽनलो यमश्चैव नैर्ऋतो वरुणोऽनिलः ।
श्रीद ईशान इन्दुश्च भौमः सौम्यो गुरुः कविः ॥ १३ ॥
शौरिविधुन्तुदः केतुः कालः कालात्मको विभुः ।
सर्वदेवमयो देवः कृष्णः कामप्रदायकः ॥ १४ ॥
य एतैर्नामभिर्मयों भक्त्या स्तौति दिवाकरम्
सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः ॥ १५ ॥
पुत्रवान्धनवान् श्रीमान् जायते स न संशयः ।
रविवारे पठेद्यस्तु नामान्येतानि भास्वतः ॥ १६ ॥
पीडाशान्तिर्भवेत्तस्य ग्रहाणां च विशेषतः ।
सद्यः सुखमवाप्नोति चायुर्दीर्घ च नीरुजम् ॥ १७ ॥

posted by Astro vyas @ June 14, 2020
0 Comments
0 Comments:
Post a Comment
HAR MAHADEV
Subscribe to Post Comments [Atom]
<< Home