।। बुध स्त्रोत्रम् ।।
॥ बुधस्तोत्रम् ॥
बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः ।
प्रियंगुकलिकाश्यामः कंजनेत्रो मनोहरः ॥ १ ॥
ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकरः ।
विरुद्धकार्यहंता च सौम्यो बुद्धिविवर्धनः ॥ २ ॥
चन्द्रात्मजो विष्णुरूपी ज्ञानीज्ञो ज्ञानिनायकः ।
ग्रहपीडाहरो दारपुत्रधान्यपशुप्रदः ॥ ३ ॥
लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः ।
पञ्चविंशति नामानि बुधस्यैतानि यः पठेत् ॥ ४॥
स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति ।
तद्दिने वा पठेद्यस्तु लभते स मनोगतम् ॥ ५ ॥
॥ इति ॥
0 Comments:
Post a Comment
HAR MAHADEV
Subscribe to Post Comments [Atom]
<< Home