प्रातःकालीन उठ कर करे इस स्तुति का पाठ शिव स्तुति: "सद्धर्मचिन्तामणौ"
।। अथ शिवस्तुतिः ।।
प्रातः स्मरामि भवभीतिहरं सुरेशं
गङ्गाधरं वृषभवाहनमम्बिकेशम् ।
खट्वाड़्गशूलवरदाभयहस्तमीशं
संसाररोगहरमौषधमद्वितीयम् ॥ १।।
प्रातर्नमामि गिरिशं गिरिजार्धदेहं सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोभिरामं
संसाररोगहरमौषधमद्वितीयम् ॥ २।।
प्रातर्भजामि शिवमेकमनन्तमाद्यं
वेदान्तवेद्यमनघं पुरुषं महान्तम् ।
नामादिभेदरहितं षडभावशून्यं
संसाररोगहरमौषधमदितीयम् ।।३।।
प्रातः समुत्थाय शिवं विचिन्त्य श्लोकत्रयं येऽनुदिनं पठन्ति ।
ते दुःखजातं बहुजन्मसञ्चितं हित्वा पदं यान्ति तदेव शम्भोः ।
।।इति शिवस्तुतिः सद्धर्मचिन्तामणौ।।
0 Comments:
Post a Comment
HAR MAHADEV
Subscribe to Post Comments [Atom]
<< Home