Posts

।।शुक्र स्तोत्रम्।। shukra stotram।।

Image
    ॥ शुक्रस्तोत्रम् ॥ शुक्रः काव्यः शुक्ररेता शुक्लाम्बरधरः सुधीः । हिमाभः कुन्तघवलः शुभ्रांशुः शुक्लभूषणः ॥ १ ॥ नीतिज्ञो नीतिकृन्नीतिमार्गगामी ग्रहाधिपः । उशना वेदवेदाङ्गपारगः कविरात्मवित् ॥ २ ॥ भार्गवः करुणासिन्धुर्ज्ञानगम्यः सुतप्रदः । शुक्रस्यैतानि नामानि शुक्रं स्मृत्वा तु यः पठेत् ||3|| आयुर्धनं सुखं पुत्रं लक्ष्मी वसतिमुत्तमाम् । विद्यां चैव स्वयं तस्मै शुक्रस्तुष्टो ददाति च ॥ ४ ॥                   ॥ इति ॥ 

।।बृहस्पति स्तोत्रम् ।।

Image
॥ बृहस्पतिस्तोत्रम् ॥ गुरुर्बृहस्पतिर्जीव: सुराचार्यो विदांवरः । वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा ॥ १ ॥ सुधादृष्टिग्रहाधीशो ग्रहपीडापहारकः । दयाकरः सौम्यमूर्तिः सुरार्च्यः कुंकुमद्युतिः ॥ २ ॥ लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः ।  तारापतिश्चांगिरसो वेदवैद्यपितामहः ॥ ३ ॥ भक्त्या बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् । अरोगी बलवान् श्रीमान्पुत्रवान् स भवेन्नरः ॥ ४ ॥ जीवेद्वर्षशतं मर्त्यो पापं नश्यति नश्यति । यः पूजयेद् गुरुदिने पीतगन्धाक्षताम्बरैः ॥ ५ ॥ पुष्पदीपोपहारैश्च पूजनीयं बृहस्पतिम् । ब्राह्मणान्भोजयेत्तस्य पीडाशान्तिर्भवेद् गुरोः ॥ ६ ॥                           ॥ इति ॥ 

।। बुध स्त्रोत्रम् ।।

Image
 ॥ बुधस्तोत्रम् ॥ बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः ।  प्रियंगुकलिकाश्यामः कंजनेत्रो मनोहरः ॥ १ ॥ ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकरः । विरुद्धकार्यहंता च सौम्यो बुद्धिविवर्धनः ॥ २ ॥ चन्द्रात्मजो विष्णुरूपी ज्ञानीज्ञो ज्ञानिनायकः । ग्रहपीडाहरो दारपुत्रधान्यपशुप्रदः ॥ ३ ॥ लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः । पञ्चविंशति नामानि बुधस्यैतानि यः पठेत् ॥ ४॥ स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति ।      तद्दिने वा पठेद्यस्तु लभते स मनोगतम् ॥ ५ ॥                          ॥ इति ॥ 

शिव-पूजनके लिये विहित पत्र-पुष्प।सहस्र गुना फल देने वाले पुष्प।भविष्य पु...

Image
शिव - पूजनके लिये विहित पत्र - पुष्प  भगवान् शंकरपर फूल चढ़ानेका बहुत अधिक महत्त्व है । बतलाया जाता है कि तपःशीलगुणोपेते विप्रे वेदस्य दत्त्वा सुवर्णस्य शतं तत्फलं कुसुमस्य च ॥ ( वीरमित्रोदय) तपःशील सर्वगुणसम्पन्न वेदमें निष्णात किसी ब्राह्मणको में सुवर्ण दान करनेपर जो फल प्राप्त होता है , वह भगवान् शंकरपर सौ फूल चढ़ा देनेसे प्राप्त हो जाता है । कौन - कौनसे पत्र - पुष्प शिवके लिये विहित है और कौन - कौन निषिद्ध हैं , इनकी जानकारी अपेक्षित है । अतः उनका उल्लेख यहाँ किया जाता है विष्णोर्यानीह चोक्तानि पुष्पाणि च पत्रिकाः । केतकीपुष्पमेकं तु विना तान्यखिलान्यपि । शस्तान्येव सुरश्रेष्ठ शंकराराधनाय हि ॥ ( नारद ) पहली बात यह है कि भगवान् विष्णुके लिये जो - जो पत्र और पुष्प विहित हैं , वे सब भगवान् शंकरपर भी चढ़ाये जाते हैं । केवल केतकी - केवड़ेका निषेध है । शास्त्रोंने कुछ फूलोंके चढ़ानेसे मिलनेवाले फलका तारतम्य बतलाया है , जैसे सर्वासा पुष्पजातीनां नीलमुत्पलम् ॥ ( वीरमित्रोदय , पूजाप्रकाश )   करवीरसमा ज्ञेया जातीबकुलपाटलाः । श्वेतमन्दारकुसुमं सितपा शमीपुष्पं बृहत्याश्च कुसु...

नवनाग स्तुति।कालसर्प दोष दुर करने वाला।

Image
॥ नवनागस्तुतिः ॥   अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् ।  शङ्खपालं धार्तराष्ट्रं तक्षकं कालियं तथा ॥१ ॥  एतानि नव नामानि नागानां च महात्मनाम् ।  सायंकाले पठेन्नित्यं प्रातः काले विशेषतः ॥२ ॥  विषाद्भयं तस्य नास्ति सर्वत्र विजयी भवेत् ॥                ॥ इति ॥

प्रातःकालीन उठ कर करे इस स्तुति का पाठ शिव स्तुति: "सद्धर्मचिन्तामणौ"

Image
 ।।  अथ  शिवस्तुतिः ।।  प्रातः स्मरामि भवभीतिहरं सुरेशं  गङ्गाधरं वृषभवाहनमम्बिकेशम् ।  खट्वाड़्गशूलवरदाभयहस्तमीशं  संसाररोगहरमौषधमद्वितीयम् ॥ १।। प्रातर्नमामि गिरिशं गिरिजार्धदेहं सर्गस्थितिप्रलयकारणमादिदेवम् ।  विश्वेश्वरं विजितविश्वमनोभिरामं  संसाररोगहरमौषधमद्वितीयम् ॥ २।। प्रातर्भजामि शिवमेकमनन्तमाद्यं  वेदान्तवेद्यमनघं पुरुषं महान्तम् ।  नामादिभेदरहितं षडभावशून्यं  संसाररोगहरमौषधमदितीयम् ।।३।।  प्रातः समुत्थाय शिवं विचिन्त्य श्लोकत्रयं येऽनुदिनं पठन्ति ।  ते दुःखजातं बहुजन्मसञ्चितं हित्वा पदं यान्ति तदेव शम्भोः । ।।इति शिवस्तुतिः  सद्धर्मचिन्तामणौ।।

।।मंगल स्त्रोत्रम् ।। mangal stotram

Image
          ॥ मंगलस्तोत्रम् ॥ मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः । स्थिरासनो महाकायः सर्वकर्मविरोधकः ॥ १ ॥ लोहितो लोहिताक्षश्च सामगानां कृपाकरः । धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः ॥ २ ॥ अंगारको यमश्चैव सर्वरोगापहारकः । वृष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ ३ ॥ एतानि कुजनामानि नित्यं यः श्रद्धया पठेत् । ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥ ४ ॥ धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् । कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥ ५ ॥ स्तोत्रमंगारकस्यैतत्पठनीयं सदा नृभिः । न तेषां भौमजा पीडा स्वल्पाऽपि भवति क्वचित् ॥ ६ ॥ अंगारकमहाभाग भगवन्भक्तवत्सल । त्वां नमामि ममाशेषमणमाश विनाशय ॥ ७ ॥ ऋणरोगादिदारिद्र्यं ये चान्ये ह्यपमृत्यवः ।  भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा ॥ ८ ॥ अतिवक्र दुराराध्य भोगमुक्त जितात्मनः । तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् ॥ ९ ॥ विरिञ्चिशक्रविष्णूनां मनुष्याणां तु का कथा । तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः ॥ १० ॥ पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः ।  ऋणदारिद्रयदुःखेन शत्रूणां च भयात्ततः ॥ ११ ॥ एभिर्वादशभिः श्लोक...