।।शुक्र स्तोत्रम्।। shukra stotram।।
॥ शुक्रस्तोत्रम् ॥ शुक्रः काव्यः शुक्ररेता शुक्लाम्बरधरः सुधीः । हिमाभः कुन्तघवलः शुभ्रांशुः शुक्लभूषणः ॥ १ ॥ नीतिज्ञो नीतिकृन्नीतिमार्गगामी ग्रहाधिपः । उशना वेदवेदाङ्गपारगः कविरात्मवित् ॥ २ ॥ भार्गवः करुणासिन्धुर्ज्ञानगम्यः सुतप्रदः । शुक्रस्यैतानि नामानि शुक्रं स्मृत्वा तु यः पठेत् ||3|| आयुर्धनं सुखं पुत्रं लक्ष्मी वसतिमुत्तमाम् । विद्यां चैव स्वयं तस्मै शुक्रस्तुष्टो ददाति च ॥ ४ ॥ ॥ इति ॥