।। बुध स्त्रोत्रम् ।।
॥ बुधस्तोत्रम् ॥ बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः । प्रियंगुकलिकाश्यामः कंजनेत्रो मनोहरः ॥ १ ॥ ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकरः । विरुद्धकार्यहंता च सौम्यो बुद्धिविवर्धनः ॥ २ ॥ चन्द्रात्मजो विष्णुरूपी ज्ञानीज्ञो ज्ञानिनायकः । ग्रहपीडाहरो दारपुत्रधान्यपशुप्रदः ॥ ३ ॥ लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः । पञ्चविंशति नामानि बुधस्यैतानि यः पठेत् ॥ ४॥ स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति । तद्दिने वा पठेद्यस्तु लभते स मनोगतम् ॥ ५ ॥ ॥ इति ॥